(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।
॥ श्रीः ॥
5.155. अध्यायः 155
Mahabharata - Udyoga Parva - Chapter Topics
दुर्योधनेन स्वसेनानां अग्र्यमध्यमपाश्चात्यभेदेन त्रेधा विभजनम् ॥ 1 ॥ तासां सांग्रामिकोपकरणसमृद्धिवर्णनम् ॥ 2 ॥ दुर्योधनेन कृपादीनामेकादशानां पृथक्पृथगक्षौहिण्यधिपतित्वेऽभिषेचनम् ॥ 3 ॥
Mahabharata - Udyoga Parva - Chapter Text
5-155-0(37094)
वैशम्पायन उवाच। 5-155-0x(3841)
व्युष्टायां वै रजन्यां हि राजा दुर्योधनस्ततः।
व्यभजत्तान्यनिकानि दश चैकं च भारत ॥ 5-155-1(37095)
नरहस्तिरथाश्वानां सारं मध्यं च फल्गु च।
सर्वेष्वेतेष्वनीकेषु सन्दिदेश नराधिपः ॥ 5-155-2(37096)
सानुकर्षाः सतूणीराः सवरूथाः सतोमराः।
सोपासङ्गाः सशक्तीकाः सनिषङ्गाः सहर्ष्टयः । 5-155-3(37097)
सध्वजाः सपताकाश्च सशरासनतोमराः ।
रज्जुभिश्च विचित्राभिः सपाशाः सपरिच्छदाः ॥ 5-155-4(37098)
सकचग्रहविक्षेपाः सतैलगुडवालुकाः ।
साशीविषघटाः सर्वे ससर्जरसपांसवः ॥ 5-155-5(37099)
सघण्टफलकाः सर्वे सायोगुडजलोपलाः ॥
सशालभिन्दिपालाश्च समधूच्छिष्टमुद्गराः ॥ 5-155-6(37100)
सकाण्डदण्डकाः सर्वे ससीरविषतोमराः ।
सशूर्पपिटकाः सर्वे सदात्राङ्कुशतोमराः ॥ 5-155-7(37101)
सकीलकवचाः सर्वे वाशीवृक्षादनान्विताः।
व्याघ्रचर्मपरीवारा द्वीपिचर्मावृताश्च ते ॥ 5-155-8(37102)
सहर्ष्टयः सश्रृङ्गाश्च सप्रासविविधायुधाः ।
सकुठाराः सकुद्दालाः सतैलक्षौमसर्पिषः ॥ 5-155-9(37103)
रुक्मजालप्रतिच्छन्ना नानामणिविभूषिताः ।
चित्रानीकाः सुवपुषो ज्वलिता इव पावकाः ॥ 5-155-10(37104)
तथा कवचिनः शूराः शस्त्रेषु कृतनिश्चयाः ।
कुलीना हययोनिज्ञाः सारथ्ये विनिवेशिताः ॥ 5-155-11(37105)
बद्धारिष्टा बद्धकक्षा बद्धध्वजपताकिनः।
बद्धाभरणनिर्यूहा बद्धचर्मासिपट्टिशाः ॥ 5-155-12(37106)
चतुर्युजो रथाः सर्वे सर्वे चोत्तमवाजिनः ।
सप्रासऋष्टिकाः सर्वे सर्वे शतशरासनाः ॥ 5-155-13(37107)
धुर्ययोर्हकययोरेकस्तथान्यौ पर्ष्णिसारथी ।
तौ चापि रथिनां श्रेष्ठौ रथी च हयवित्तथा ॥ 5-155-14(37108)
नगराणीव गुप्तानि दुराधर्षाणि शत्रुभिः ।
आसन्रथसहस्राणि हेममालीनि सर्वशः ॥ 5-155-15(37109)
यथा रथास्तथा नागा बद्धकक्षाः स्वलङ्कृताः ।
बभूवुः सप्तपुरुषा रत्नवन्त इवाद्रयः ॥ 5-155-16(37110)
द्वावङ्कुशधरौ तत्र द्वावुत्तमधनुर्धरौ ।
द्वौ वरासिधरौ राजन्नेकः शक्तिपिनाकधृत् ॥ 5-155-17(37111)
गजैर्मत्तैः समाकीर्णं सर्वमायुधकोशकैः।
तद्बभूव बलं राजन्कौरव्यस्य महात्मनः ॥ 5-155-18(37112)
आमुक्तकवचैर्युक्तैः सपताकैः स्वलङ्कृतैः ।
सादिभिश्चोपपन्नास्तु तथा चायुतशो हयाः ॥ 5-155-19(37113)
असङ्ग्राहाः सुसंपन्ना हेमभाण्डपरिच्छदाः।
अनेकशतसाहस्राः सर्वे सादिवशे स्थिताः ॥ 5-155-20(37114)
नानारूपविकाराश्च नानाकवचशस्त्रिणः ।
पदातिनो नरास्तत्र बभूवुर्हेममाल